Pages

Tuesday, July 28, 2015

श्री गोरक्ष स्तवन

Shree Shree Mahayogi Guru Gorakhnath
श्री गोरक्ष स्तवन
आत्मखलु विश्वमूलम् ॐ कृण्वन्तो विश्वमार्यम् ।
गोरक्ष बालं गुरुशिष्यपालं शेषहिमालं शशिखण्डभालम् ।।
कालस्य कालं जितजन्मजालं वन्दे जटालं जगदाब्जनालम् ।।।
गोरक्षनाथ भवरुप भवाब्धिपोत,
भक्तार्तिनाशन विभो करुणैकमूर्ते ।
त्वत्पाद–पद्म–मकरन्द–मधुव्रतोऽहं,
तापं, मदीयमनसो हर देव सद्यः ।।१।।
गोरक्षनाथ मयि चेत् करुणातवेदृक्,
दीनस्त्वदीयचरणौं शरणं प्रपद्ये ।
नश्येदवश्यमथमानसवेदना में,
सिद्धिं ब्रजेन्निखिलब्रह्मविधिर्हि लोके ।।२।।
गोरक्षनाथ–रजसा चरणस्थितेन,
पूतं शिरो भवति भक्तजनस्य नूनम् ।
त्वद्दर्शनं हरति तस्य समस्तचिन्तां,
त्वत्सेवनं हरति पाप पिशाच पुञ्जम् ।।३।।
हे नाथ ! मामपि विलोकय दीनकन्धो,
सन्तापं–तप्त–हृदयं कृपणं क्षणेऽस्मिन् ।
पादानेते शिरसि मे वरदात्म–हस्तं,
कामं निधेहि गुरदेव ! भवानुकूलः ।।४।।
दोषकरोऽस्मि भगवन्नुकम्पनीयः
निर्दोषता न सुलभा जगतीतलेऽस्मिन् ।
दोषकरेऽपि विमलद्युतिसंयुतेऽपि,
किं लाञ्छनं मनुजदृष्टिपथं न यति ।।५।।
आक्रम्यते जगति नैकविधैर्हि रोगै,
भोगी जनो विततभोग–विमूढचेताः ।
गोरक्षपाद–सरसीरुह–पूजनन्तु,
व्याधीर्हिनस्ति सकलान् खलु भोगमूलान् ।।६।।
बद्धोऽस्मि देव भव–मोह–समूह–जाले,
मोच्यस्त्वया सदयमार्तिहरेण तूर्णम् ।
देया च मे शुभमतिः सततं ययाऽहं,
त्वदपाद–पद्म–युगलं विमलं भजेयम् ।।७।।
गोरक्षपत्तनमिदं प्रथितं पृथिव्यां,
तेपे तपः सततमत्र भवान् मुनीन्द्रः ।
योगस्य मार्गमुपदिश्य जनान् कृतार्थान्,
चक्रे भृशं सकललोक–शुभाभिलाषी ।।८।।

No comments:

Post a Comment